वांछित मन्त्र चुनें

म॒हो यस्पति॒: शव॑सो॒ असा॒म्या म॒हो नृ॒म्णस्य॑ तूतु॒जिः । भ॒र्ता वज्र॑स्य धृ॒ष्णोः पि॒ता पु॒त्रमि॑व प्रि॒यम् ॥

अंग्रेज़ी लिप्यंतरण

maho yas patiḥ śavaso asāmy ā maho nṛmṇasya tūtujiḥ | bhartā vajrasya dhṛṣṇoḥ pitā putram iva priyam ||

पद पाठ

म॒हः । यः । पतिः॑ । शव॑सः । असा॑मि । आ । म॒हः । नृ॒म्णस्य॑ । तू॒तु॒जिः । भ॒र्ता । वज्र॑स्य । धृ॒ष्णोः । पि॒ता । पु॒त्रम्ऽइ॑व । प्रि॒यम् ॥ १०.२२.३

ऋग्वेद » मण्डल:10» सूक्त:22» मन्त्र:3 | अष्टक:7» अध्याय:7» वर्ग:6» मन्त्र:3 | मण्डल:10» अनुवाक:2» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः) जो इन्द्र ऐश्वर्यवान् परमात्मा (महः शवसः पतिः) महान् बल आत्मबल का पालक रक्षक और दाता है (महः नृम्णस्य-असामि-आ-तूतुजिः) न समाप्त होनेवाले महान् मोक्ष धन का शीघ्र दाता है (धृष्णोः वज्रस्य) धर्षणशील ओजस्वी उपासक का (प्रियं पुत्रम्-इव पिता) प्यारे पुत्र के प्रति पिता के समान है ॥३॥
भावार्थभाषाः - परमात्मा महान् बल-आत्मबल का स्वामी तथा रक्षक एवं पालक है, महान् धन-मोक्ष का प्रदान करनेवाला है। वह दृढ़ अभ्यासी ओजस्वी उपासक प्रियपुत्र के प्रति पिता के समान व्यवहार करता है ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः) य इन्द्र ऐश्वर्यवान् परमात्मा (महः शवसः पतिः) महतो बलस्य-आत्मबलस्य पालको रक्षको दाता “शवः बलनाम” [निघ० २।९] (महः नृम्णस्य-असामि-आ तूतुजिः) महतो धनस्य मोक्षैश्वर्यस्य “नृम्णं धननाम” [निघ० २।१० ] असुसमाप्तश्च शीघ्रकारी-शीघ्रदातेत्यर्थः, “तूतुजिः क्षिप्रनाम” [निघ० २।१५] “तूतुजिः शीघ्रकारी” [ऋ० ४।३२।२ दयानन्दः] (धृष्णोः वज्रस्य) धर्षणशीलस्य प्रखरौजसः-ओजस्विन उपासकस्य ‘मतुब्लोपश्छान्दसः’ (प्रियं पुत्रम्-इव पिता) प्रियं पुत्रं प्रति पिता-इव-अस्ति ॥३॥